ॐ शिरो में पातु मार्तण्ड: , कपालं रोहिणी पति:।
मुखमंगारकः पातु कण्ठं च शशिनंदनः।।
बुद्धिं जीवः सदा पातु हृदयं भृगुनंदनः।
जठरं च शनिः पातु जिव्हां मे दितिनंदनः।।
पादौ केतुः सदा पातु वाराः सर्वांगमेव च।
तिथयौष्टौ दिशः पान्तु नक्षत्राणि वपुः सदा।।
अंसौ राशिः सदा पातु योग्श्च स्थैर्यमेव च।
सुचिरायुः सुखी पुत्री युद्धे च विजयी भवेत्।।
रोगात्प्रमुच्यते रोगी बन्धो मुच्येत बन्धनात्।
श्रियं च लभते नित्यं रिष्टिस्तस्य न जायते।।
पठनात् कवचस्यास्य सर्वपापात् प्रमुच्यते।
मृतवत्सा च या नारी काकवन्ध्या च या भवेत्।।
जीववत्सा पुत्रवती भवत्येव न संशयः।
एतां रक्षां पठेद्यस्तु अंगं स्पृष्टवापि वा पठेत्।।
No comments:
Post a Comment