Monday, April 25, 2022

विष्णोर्षोडशनामस्तोत्रं



औषधे चिन्तयेद विष्णुं भोजने च जनार्दनं ।
शयने पद्मनाभं च विवाहे च प्रजापतिम  ।।
युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमं ।
नारायणं तनुत्यागे श्रीधरं प्रियसंगमे ।।
दु:स्वप्ने स्मर गोविन्दं संकटे मधुसूदनम ।
कानने नारसिंहं च पावके जलशायिनम ।।
जलमध्ये वराहं च पर्वते रघुनंदनम ।
गमने वामनं चैव सर्वकार्येषु माधवं ।।
षोडश-एतानि नामानि प्रातरुत्थाय य: पठेत ।
सर्वपाप विनिर्मुक्तो विष्णुलोके महीयते ।।

No comments:

Post a Comment